|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.100. अध्यायः 100
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति जलादिदानफलप्रतिपादनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम्।
इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत्॥ 13-100-1(85469)
पवित्रं शुच्यथायुष्यं पितृणामक्ष्यं च तत्।
सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम्॥ 13-100-2(85470)
पानीयपरमं दानं दानानां मनुरब्रवीत्।
तस्मात्कूपांश्च वापीश्च तटाकानि च स्वानयेत्॥ 13-100-3(85471)
सर्वं विनाशयेत्पापं पुरुषस्येह कर्मणः।
कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः॥ 13-100-4(85472)
सर्वं तारयते वंशं यस्य खाते जलाशये।
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा॥ 13-100-5(85473)
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम्।
स दुर्गं विषमं कृत्स्नं न कदाचिदवाप्नुते॥ 13-100-6(85474)
बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च।
अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा॥ 13-100-7(85475)
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम्।
रसानामुत्तमं चैतत्फलानां चैतदुत्तमम्॥ 13-100-8(85476)
फलकामो यशस्कामः पुष्टिकामश्च नित्यदा।
घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान्॥ 13-100-9(85477)
घृतं मासे आश्वयुजि विप्रभ्यो यः प्रयच्छति।
तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ॥ 13-100-10(85478)
पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति।
गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन॥ 13-100-11(85479)
पिपासया न म्रियते सोपच्छन्दश्च जायते।
न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति॥ 13-100-12(85480)
प्रयतो ब्राह्मणाग्रे यः श्रद्धया परया युतः।
उपस्पर्शनषड्भागं लभते पुरुषः सदा॥ 13-100-13(85481)
यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति।
प्रतापनार्थं राजेन्द्र वृत्तवद्भ्यः सदा नरः॥ 13-100-14(85482)
सिद्ध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च।
उपर्युपरि शत्रूणां वपुषा दीप्यते च सः॥ 13-100-15(85483)
भगवांश्चापि सम्प्रतो वह्निर्भवति नित्यशः।
न तं त्यजन्ति पशवः सङ्ग्रामे च जयत्यपि॥ 13-100-16(85484)
पुत्राञ्श्रियं च लभते यश्छत्रं सम्प्रच्छति।
न चक्षुर्व्याधिं लभते यज्ञभागमथाश्नुते॥ 13-100-17(85485)
निदाघकाले वर्षे वा यश्छत्रं सम्प्रयच्छति।
नास्य कश्चिन्मनोदाहः कदाचिदपि जायते।
कृच्छ्रात्स विषमाच्चैव क्षिप्रं मोक्षमवाप्नुते॥ 13-100-18(85486)
प्रदानं सर्वदानानां शकटस्य विशाम्पते।
एवमाह महाभागः शाण्डिल्यो भगवानृषिः॥ ॥ 13-100-19(85487)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि शततमोऽध्यायः॥ 100 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-100-12 सोपच्छन्दः सोपकरणः। करकान्पात्रविशेषान्॥ 7-100-13 अग्रं वृत्तिक्षेत्रादि तदर्थम्। उत्कोचं विना। उपस्पर्शनं दानम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|